(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.53. अध्यायः 053
Mahabharata - Virata Parva - Chapter Topics
इन्द्रेण सुदर्शननामनि कामगामिनि प्रासादे देवगणसमारोपणपूर्वकमर्जुनकुरुरणावलोकनाय गगनाङ्कणावतरणम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-53-0x(3219)(30555)
ततः सुदर्शनं नाम प्रासादं हरिवाहनः ।
सर्वान्देवान्समारोष्य प्रययो यत्र पाण्डवः ॥ 4-53-1(30556)
स्थूणाराजिसहस्रं तु यत्र मध्ये प्रतिष्ठितम् ।
तत्र सूर्यपथेऽतिष्ठद्विमला महती सभा ॥ 4-53-2(30557)
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ।
तत्र श्वेतानि चक्राणि काञ्चनस्फाटिकानि च ॥ 4-53-3(30558)
तथा चित्राणि छत्राणि दिव्यरूपाणि भारत ।
मणिरत्नविचित्राणि नानारूपाणि भागशः ।
आकाशे सह दृश्यन्ते भानुमन्ति शुभानि च ॥ 4-53-4(30559)
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च।
तथा धातुर्विधातुश्च मित्रस्य धनदस्य च।
रुद्रस्य विष्णो सवितुस्त्रिदशानां तथैव च॥ 4-53-5(30560)
काञ्चनानि च दामानि विविधाश्चोत्तमस्रजः।
दिव्यपुष्पाभिसवीतास्तत्र चित्राणि भेजिरे ॥ 4-53-6(30561)
तस्मिंस्तु राजन्प्रासादे दिव्यरत्नविभूषिते ।
दिव्यगन्धसमायुक्ताः स्रजो दिव्याश्चकाशिरे ॥ 4-53-7(30562)
दिव्यश्च वायुः प्रववौ गन्धमादाय सर्वशः ।
ऋतवः पुष्पमादाय समतिष्ठन्त भारत ॥ 4-53-8(30563)
प्रजानां पतयः सप्त सप्त चैव महर्षभः।
तत्र देवर्षयश्चैव देवराजं दिवौकसः ।
इन्द्रेण सहिताः सर्वे त्रिदशाश्च व्यवस्थिताः ॥ 4-53-9(30564)
न पङ्को न रजस्तत्र प्रविवेश कथंचन ।
आदित्यश्च विरूक्षोत्र नातिवेलमिवातपत् ॥ 4-53-10(30565)
दिव्यगन्धं समादाय वायुस्तत्राभिगच्छति।
आकाशं च दिशः सर्वा दर्शनीयमदृश्यत ॥ 4-53-11(30566)
तत्र देवाः समारुह्य तं दिव्यं सर्वतःप्रभम् ।
अम्बरे विमलेऽतिष्ठन्प्रासादं कामगामिनम् ॥ 4-53-12(30567)
तत्र राजर्षयश्चैव समारुह्य दिवौकसः ।
श्वेतो राजा वसुमनास्तथा भद्रः प्रदर्शनः ॥ 4-53-13(30568)
नृगो ययातिर्नहुपो मान्धात भरतः कुरुः ।
अष्टकश्च शिबिश्चोभौ स च राजा पुरूरवाः ॥ 4-53-14(30569)
डम्भोद्भवः कार्तवीर्यो ह्यर्जुनः सगरस्तथा।
दिलीपः केरलः पूरुः शर्यातिः सोमकस्तदा ॥ 4-53-15(30570)
हरिश्चन्द्रश्च तेजस्वी रघुर्दशरथस्तथा।
भगीरथश्च राजर्षिः सर्वे च जनमेजय॥ 4-53-16(30571)
पाण्डुश्चैव महाराजश्चामरव्यजनोज्ज्वलः।
छत्रेण ध्रियमाणेन राजसूयश्रिया वृतः ॥ 4-53-17(30572)
एते चान्ये च बहवः पुण्यशीलाः शुचिव्रताः ।
कीर्तिमन्तो महावीर्यास्तत्रैवासन्दिवि स्थिताः ॥ 4-53-18(30573)
गणाश्चाप्सरसां सर्वे गन्धर्वाश्चापि सर्वशः ।
दैत्यराक्षसयक्षाश्च सुपर्णाः पन्नगास्तथा ॥ 4-53-19(30574)
वासवप्रमुखाः सर्वे देवाश्च सगणेश्वराः ।
आसंस्तत्र समारूढाः संग्रामं तं दिदृक्षवः ॥ 4-53-20(30575)
4-53-21(30576)
इत्यम्बरे व्यवस्थाय प्रासादस्था दिवौकसः ।
एकस्य च बहूनां च युद्धं द्रुष्टुं व्यवस्थिताः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.